Demo: International Journal of Science and Humanities

ShodhPatra: International Journal of Science and Humanities

A Peer-Reviewed & Refereed International Multidisciplinary Monthly Journal

Call For Paper - Volume - 3 Issue - 6 (June 2026)
Article Title

वेदेषु नारीणां स्थितिः अधिकाराश्च : एकं विश्लेषणम्

Author(s) Palash Mondal.
Country India
Abstract

वेदाः भारतीयसंस्कृतेः प्राचीनतमाः आधाराः सन्ति, यत्र न केवलं दार्शनिकविचाराः अपितु सामाजिक-नैतिक-शैक्षिकमूल्यानां गम्भीरं विवेचनं प्राप्यते। विशेषतः वेदेषु नारीणाम् अधिकारः सामाजिकस्थानं च महता गौरवेण प्रतिष्ठापितम् अस्ति। ऋग्वेदादिषु चतुर्षु वेदेषु नारीभ्यः पुरुषवदेव ज्ञानार्जनस्य, शिक्षायाः, यज्ञोपवीतसंस्कारस्य तथा वैदिकाध्ययनस्य पूर्णाधिकारः प्रदत्तः आसीत्। वेदेषु गार्गी-मैत्रेयी-लोपामुद्रा-अपाला-सदृशानां विदुषीनां ऋषिकाणां उल्लेखः दृश्यते, येन ज्ञायते यत् स्त्रियः केवलं गृहकर्मणि न, अपितु वैचारिक-आध्यात्मिक-क्षेत्रेषु अपि समानाधिकारेण सक्रियाः आसन्। 'संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्' इति वेदवाक्यं स्त्री-पुरुषयोः सामाजिकसमानतां स्पष्टं करोति। वेदकालीनसमाजे नारीणां कृते उच्चशिक्षायाः अवसरः, विवाहविषये स्वेच्छा, गृहस्थजीवने समानभागित्वं तथा पितृसम्पत्तौ कन्यानां पुत्रवत् उत्तराधिकारः अपि व्यावहारिकरूपेण स्वीकृतः आसीत्। अतः निष्कर्षतः वक्तुं शक्यते यत् वेदाः भारतीयनारीणां अधिकाराणां प्राचीनतमां प्रामाणिकीं च आधारभूमिं प्रस्तूयन्ते। एतद् शोधपत्रं वेदानां परिप्रेक्ष्ये आधुनिकसमाजे नारी-अधिकाराणां प्रासंगिकतां विवृणोति।

Area Sanskrit
Issue Volume 3, Issue 5 (May 2026)
Published 2026/05/13
How to Cite Mondal, P. (2026). वेदेषु नारीणां स्थितिः अधिकाराश्च : एकं विश्लेषणम्. ShodhPatra: International Journal of Science and Humanities, 3(5), 138–142. https://doi.org/10.70558/SPIJSH.2026.v3.i5.45734
DOI 10.70558/SPIJSH.2026.v3.i5.45734

PDF View / Download PDF File